संस्कृत सीखें
-
शास्त्री नित्यगोपाल कटारेo
पाठ - ०3
तृतीय: पाठः
चलं
चित्तं चलं वित्तं चले यौवनजीविते।
अतीव चंचलं सर्वं कीर्तिः एका हि निश्चला।।
-----------------------------------------------------------------------------
लङ् लकार (भूतकाल)
| एकवचन | द्विवचन | बहुवचन |
| अन्य पुरुष | अगच्छत्
|
अगच्छताम् | अगच्छन् |
| मध्यम पुरुष | अगच्छः | अगच्छतम | अगच्छत
|
| उत्तम पुरुष | अगच्छम्
|
अगच्छाव
|
अगच्छाम |
इदानीम् वयं क्त्वा ल्यप्
च प्रत्ययोः प्रयोगं कृत्वा भुतकालिक वाक्यरचनाः कुर्मः।
यदा वयं एकां क्रियां कृत्वा अन्यामपि क्रियां कुर्मः तदा प्रथमायां क्रियायां
क्त्वा प्रत्ययस्य प्रयोगः भवति।
यथा-
गत्वा =जाकर
खादित्वा= खाकर
पीत्वा=पीकर
हँसित्वा= हँसकर
भूत्वा= होकर
पठित्वा=पढकर
लिखित्वा=लिखकर
स्थित्वा = बैठकर
दत्वा = देकर
नीत्वा= लेकर
दृष्ट्वा = देखकर
उक्त्वा= कहकर
ज्ञात्वा=जानकर
कृत्वा= करके
यत्र क्रियायां उपसर्गः विद्यते तत्र
क्त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययस्य प्रयोगः भवति।यथा--
आगत्य=
आकर
उत्थाय=उठकर
निर्गत्य= निकलकर
उपकृत्य= उपकार करके
विहस्य= हँसकर
विलिख्य -लिखकर
आदाय= लेकर
सम्प्राप्य = प्राप्त करके
यथा--
गोपालः
भोजनं कृत्वा विद्यालयं अगच्छत्। गोपाल भोजन करके
विद्यालय गया।
गोपालः गृहम आगत्य भोजनं अकरोत् ।
गोपाल ने घर आकर भोजन किया।
छात्राः पाठं पठित्वा अलिखन्।
छात्रों ने पाठ पढकर लिखा।
बालकाः विद्यालये स्थित्वा अपठन् ।
बालकों ने विद्यालय में बैठकर पढा।
बालकाः उठकर गृहं अगच्छन्।
बालक उठकर घर गये।
अहं पुस्तकं नीत्वा उद्यानं अगच्छम्।
मैं पुस्तक लेकर उद्यान गया।
एतत् उक्त्वा माला अगच्छत् ।
यह कहकर माला गयी।
एतत् ज्ञात्वा सा अति प्रसन्ना अभवत्।
यह जानकर वह अत्यन्त प्रसन्न हुई।
सः जलं पीत्वा अधावत् ।
वह पानी पीकर दौडा।
शिष्याः ज्ञानं सम्प्राप्य स्वगृहं अगच्छन्।
शिष्य ज्ञान प्राप्त करके अपने घर गये।
गुरुः उपदेशं दत्वा अपृच्छत् ।
गुरु ने उपदेश देकर पूछा।
राजा राज्यं परित्यज्य वनं अगच्छत्।
राजा राज्य छोडकर वन को गया।
सा माम् दृष्टवा विहस्य च अगच्छत्।
मुझे देखकर हँसकर चली गयी।
अहं फलं खादित्वा जलम अपिबम् ।
मैंने फल खाकर पानी पिया।
**************************************